|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.145. अध्यायः 145
Mahabharata - Udyoga Parva - Chapter Topics
कुन्त्या कर्णंप्रति तस्य सूर्यात्स्वस्मिन् जननकथनपूर्वकं पाण्डवैः सह संगमचोदना ॥

Mahabharata - Udyoga Parva - Chapter Text
कर्ण उवाच। 5-145-0x(3810)(36770)
राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये ।
प्राप्ता किमर्थं भवती ब्रूहि किं करवामि ते ॥ 5-145-1(36771)
कुन्त्युवाच। 5-145-2x(3811)
कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता।
नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ॥ 5-145-2(36772)
कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः ।
कुन्तिराजस्य भवने पार्थस्त्वमसि पुत्रक ॥ 5-145-3(36773)
प्रकाशकर्मा तपनो योऽयं देवो विरोचनः ।
अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ॥ 5-145-4(36774)
कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः ।
जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ॥ 5-145-5(36775)
स त्वं भ्रातॄनसंबुद्ध्य मोहद्यदुपसेवसे ।
धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ॥ 5-145-6(36776)
एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये ।
यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ॥ 5-145-7(36777)
अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः ।
आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष यौधिष्ठिरीं श्रियम् ॥ 5-145-8(36778)
अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् ।
सौभ्रात्रेण समालक्ष्य संनमन्तामसाधवः । 5-145-9(36779)
कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ ।
असाध्यं किं नु लोके स्याद्युवयोः संहितात्मनोः ॥ 5-145-10(36780)
कर्ण शोभिष्यसे नूनं पञ्चमिर्भ्रातृभिर्वृतः।
देवैः परिवृतो ब्रह्मा वेद्यामिव महाध्वरे ॥ 5-145-11(36781)
उपपद्यो गुणैः सर्वैर्ज्येष्ठः श्रेष्ठेषु बन्धुषु ।
सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ॥ ॥ 5-145-12(36782)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-145-7 एकं पुत्रमेव स्नेहेन पश्यन्ती एकदर्शिनी ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|